वांछित मन्त्र चुनें

बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् । त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ न॒: शं योर॑र॒पो द॑धात ॥

अंग्रेज़ी लिप्यंतरण

barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam | ta ā gatāvasā śaṁtamenāthā naḥ śaṁ yor arapo dadhāta ||

पद पाठ

बर्हि॑ऽसदः । पि॒त॒रः॒ । ऊ॒ती । अ॒र्वाक् । इ॒मा । वः॒ । ह॒व्या । च॒कृ॒म॒ । जु॒षध्व॑म् । ते । आ । ग॒त॒ । अव॑सा । शम्ऽत॑मेन । अथ॑ । नः॒ । शम् । योः । अ॒र॒पः । द॒धा॒त॒ ॥ १०.१५.४

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:4 | अष्टक:7» अध्याय:6» वर्ग:17» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बर्हिषदः पितरः-ऊती-अर्वाक्-वः-इमा हव्या-चकृम जुषध्वम्) यज्ञासन पर बैठे हुए हे विद्वानो ! हम अपनी रक्षा के लिये तुम्हारे वास्ते होम की वस्तुओं को तैयार करते हैं, इनको तुम अग्नि में डालकर काम में लाओ (ते शंतमेन-अवसा-आगत नः-अरपः शंयोः-दधात) वे तुम विद्वानो ! सुखमय रक्षण के कारण सदा प्राप्त हुआ करो और हमारे लिये शुद्धभाव, रोगनिवृत्ति और भय के दूरीकरण का उपाय करते रहो ॥४॥
भावार्थभाषाः - यज्ञ में विद्वानों को निमन्त्रित करके उनसे अपनी रोगनिवृत्ति और आपत्तियों से बचने के लिये कुछ न कुछ ज्ञान प्राप्त करना चाहिये ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बर्हिषदः पितरः ऊती-अर्वाक्-वः-इमा हव्या-चकृम जुषध्वम्) यज्ञासन उपविष्टा ऊती-ऊत्यै-अस्मद्रक्षायै “सुपां सुपो भवन्ति” [अष्टा०७।१।३९ वार्तिकम्] विभक्तिव्यत्ययः। अत्र यज्ञे युष्मभ्यमिमानि हव्यानि कुर्मः सम्पादयामः सज्जीकुर्मो यूयं जुषध्वमग्नौ प्रक्षेपार्थं प्रयुङ्ध्वम् (ते शंतमेन-अवसा-आगत नः अरपः शंयोः दधात) ते यूयं विद्वांसः सुखमयेन रक्षणेन सदैव प्राप्नुत, अस्मभ्यं पापरहितं भावं रोगाणां शमनं यावनं च भयानां धारयत, तथा च निरुक्तम् [४।११] ॥४॥